(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.310. अध्यायः 310
Mahabharata - Vana Parva - Chapter Topics
स्नानाय भार्यया सह गङ्गां गतेनाधिरथनाम्ना सूतेन तत्रोत्प्लवमानायाः सगर्भमञ्जूषाया ग्रहणम् ॥ 1 ॥ तथा मञ्जूषोद्घाटने दृष्टस्य गर्भस्य स्वपुत्रतया परिकल्पनेन नामकरणादिपूर्वकंप्रीत्या पोषणम् ॥ 2 ॥ कर्णेन परशुरामादिभ्योऽस्त्रग्रहणपूर्वकं दुर्योधनेन सख्यकरणम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-310-0x(2852)(27801)
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा।
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥ 3-310-1(27802)
तस्य भार्याऽभवद्राजन्रूपेणासदृशी भुवि।
राधा नाम महाभागा न सा पुत्रमविन्दत।
अपत्यार्थे परं यत्नमकरोच्च विशेषतः ॥ 3-310-2(27803)
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया।
दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम् ॥ 3-310-3(27804)
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्।
`विवर्तमानां बहुशः पुनःपुनरितस्ततः ॥ 3-310-4(27805)
ततः सा वायुना राजन्स्रोतसा च बलीयसा।
उपानीतो यतः सूतः सभार्यो जलमाश्रितः' ॥ 3-310-5(27806)
सा तु कौतूहलात्प्राप्तां ग्राहयामास भामिनी।
ततो निवेदयामास सूतस्याधिरथस्य वै ॥ 3-310-6(27807)
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्।
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्रबालकम् ॥ 3-310-7(27808)
मृष्टकुण्डलयुक्तेन वदनेन विराजितम्।
`परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम् ॥ 3-310-8(27809)
स तु तं परया लक्ष्म्या दृष्ट्वा युक्तं वरात्मजम्'।
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः।
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥ 3-310-9(27810)
इदमत्यद्भुतं भीरु यतो जातोस्मि भामिनि।
दृष्टवान्देवगर्भोऽयं मन्येऽस्माकमुपागतः ॥ 3-310-10(27811)
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम।
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥ 3-310-11(27812)
रप्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम्।
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥ 3-310-12(27813)
`स्तन्यं समस्रवच्चास्य दैवादित्थ निश्चयः'।
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्।
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥ 3-310-13(27814)
`नामकर्म च चक्रुस्ते कुण्डले तस् दृश्यते।
कर्ण इत्येव तं बालं दृष्ट्वा कर्णं सकुण्डलम्' ॥ 3-310-14(27815)
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्।
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥ 3-310-15(27816)
एवं स सूतपुत्रत्वं जगामामितविक्रमः।
वसुषेण इतिख्यातो वृष इत्येव च प्रभुः ॥ 3-310-16(27817)
सूतस्य ववृधेऽङ्गेषु ज्येष्ठः पुत्रः स वीर्यवान्।
चारेण विदितश्चासीत्पृथया दिव्यवर्मभृत् ॥ 3-310-17(27818)
सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम्।
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥ 3-310-18(27819)
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि।
सख्यं दुर्योधनेनैवमगमत्स च वीर्यवान् ॥ 3-310-19(27820)
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्।
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ॥ 3-310-20(27821)
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः।
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ॥ 3-310-21(27822)
सदा हि तस् स्पर्धाऽऽसीदर्जुनन विशांपते।
अर्जुनस्य च कर्णेन यतो द्वन्द्वं बभूव ह ॥ 3-310-22(27823)
एतद्गुह्यं महाराज सूर्यस्यासीन्न संशयः।
यः सूर्यसंभवः कर्णः कुर्यात्प्रतिकुले रतः ॥ 3-310-23(27824)
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्।
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ॥ 3-310-24(27825)
यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम्।
स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिलोत्थितः ॥ 3-310-25(27826)
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना।
नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु ॥ 3-310-26(27827)
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः।
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥ 3-310-27(27828)

इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि दशाधिकत्रिशततमोऽध्यायः ॥ 310 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-310-3 दत्तो रक्षार्थं प्रतिसरो दूर्वाकङ्कणादिरूपो यस्यां तामअ। अन्वालम्भनं कुङ्कुमहस्तदानम् ॥ 3-310-5 उपह्वरं समीपम् ॥ 3-310-7 उत्सार्य परतो नीत्वा ॥ 3-310-15 वसुवर्म स्वर्णकवचनम् ॥ 3-310-17 अङ्गेषु जनपदविशेषेषु ॥ 3-310-19 उपसदनं गुरूपसदनम् ॥ 3-310-20 परमेष्वासतां महाधनुर्धरताम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.